आवहन्तीहोमविधिः

अथ आवहन्तीहोमविधिः (शान्तिकुसुमाकरस्थः)

अथ कूश्माण्डहोममिव स्मार्तमप्यावहन्तीहोमं पापक्षयार्थमिष्टप्राप्त्यर्थमरिष्टनिवृत्त्यर्थं च वक्ष्यामः। अयं च होमं वैश्वदेवे चित्रबलेः पूर्वं कार्यः।

अस्य श्रीमदावहन्तीमहामन्त्रस्य माहाचमस्यः ऋषिः। महाविराट्छन्दः। अन्नपूर्णा भगवती भवानी देवता।

आं बीजं, ह्रीं शक्तिः, क्रों कीलकम्। मम समस्तपापक्षयपुरुस्सरं अन्नसमृद्ध्यर्थे होमे विनियोगः।

आवहन्ती वितन्वाना अङ्गुष्ठाभ्यां नमः।
कुर्वाणा चीरमात्मनः तर्जनीभ्यां नमः।
वासाꣳसि मम गावश्च मध्यमाभ्यां नमः।
अन्नपाने च सर्वदा अनामिकाभ्यां नमः।
ततो मे श्रियमावह कनिष्ठिकाभ्यां नमः।

एवं हृदयादिन्यासः। भूर्भुवःसुवरोमिति दिग्बन्धः।

ध्यानम् –
अर्काभामरुणाम्बरावृततनूमानन्दपूर्णाननाम्
मुक्ताहारविभूषितां कुचभरानम्रां सकाञ्चीगुणाम्।
देवीं दिव्यरसान्नपूर्णकरकामम्भोजदर्वीकराम्
ध्यायेच्छङ्करवल्लभां त्रिनयनामम्बां प्रलम्बालकाम्॥
इति ध्यायेत्।

यच्छन्दसामृषभो विश्वरूपः। अदितेऽनुमन्यस्व।
छन्दोभ्योऽध्यमृतात् संबभूव। अनुमतेऽनुमयस्व।
समेन्द्रो मेधया स्पृणोतु। सरस्वतेऽनुमयस्व।
अमृतस्य देवधारणो भूयासम्। देवसवितः प्रसुव।
इत्यग्निं परिषिच्य।

अथ औदुम्बरीश्चतस्रः समिधो जुहुयात्।

शरीरं मे विचर्षणꣴ स्वाहा। अन्नपूर्णायै भवान्या इदम्।
(एवमुत्तरत्र त्रिष्वपि मन्त्रेषु उद्देशत्यागः)

जिह्वा मे मधुमत्तमा स्वाहा।
कर्णाभ्यां भूरिविश्रुवꣴ स्वाहा।
ब्रह्मणः कोशोऽसि मेधयाऽपिहितः स्वाहा।

ततः, श्रुतं मे गोपायेति प्रार्थयेत्॥

अथान्नहोमः –
आवहन्ती वितन्वाना + सर्वदा स्वाहा॥१॥
अन्नपूर्णायै भवान्या इदम्। (एवमुत्तरत्रापि)

आवहन्तीवितन्वाना + श्रियमावह स्वाहा॥२॥
आवहन्ती + पशुभिः सह स्वाहा॥३॥

आमायन्तु ब्रह्मचारिण स्वाहा।
विमायन्तु ब्रह्मचारिणः स्वाहा।
प्रमायन्तु + स्वाहा।
दमायन्तु + स्वाहा।
शमायन्तु + स्वाहा॥४॥

यशोजने सानि स्वाहा॥५॥

श्रेयान् वस्यसोसानि स्वाहा॥६॥

तन्त्वा भग प्रविशानि स्वाहा॥७॥

समाभगप्रविश स्वाहा॥८॥

तस्मिन् सहस्रशाखे। निभगाहन् त्वयि मृजे स्वाहा॥९॥

यथापः प्रवतायन्ति। यथा मासा अहर्जरम्। एवं मां ब्रह्मचारिणः। धातरायन्तु सर्वतः स्वाहा॥१०॥

आवहन्ती वितन्वाना + प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व स्वाहा॥११॥

एवमेकादशाहुतयः। अथ स्विष्टकृतं जुहोति। यच्छन्दसामृषभ इत्यादिभिश्चतुर्भिर्वाक्यैः अदितेऽन्वमंस्था इत्युत्तरपरिषेचनम्॥ ततश्चित्रादिबलिं कृत्वा अग्निमुपतिष्ठेत॥ आवहन्तीत्यादिभिर्हृदयादिन्यासः॥

इत्यावहन्तीहोमविधिः॥