जन्माष्टमी

source: kalpa chintāmani
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

अथ जन्माष्टमीव्रतनिर्णयः

निशीथव्यापिनी ग्राह्या पूर्वत्रैव निशीथव्याप्तौ पूर्वा। अन्यथा व्याप्तिपञ्चकेऽपि परा॥

जन्माष्टमीव्रतम्

आदावनुज्ञां कृत्वा ब्राह्मणान् नमस्कृत्य दक्षिणाताम्बूलं च गृहीत्वा,

अशेषे + स्वीकृत्य, अस्माकं सहकुटुम्बानां + सिद्ध्यर्थं देवकीवसुदेवसहितगोपालकृष्णप्रसादसिद्ध्यर्थं जन्माष्टमीपुण्यकाले गोपालकृष्णपूजां कर्तुं योग्यतासिद्धिमनुगृहाण॥

विघ्नेश्वरं संपूज्य सङ्कल्पः॥ शुभे शोभने + गोपालकृष्णपूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये॥ विघ्नेश्वरमुद्वास्य॥ कलशपूजां कृत्वा॥ पूजोपकरणानि आत्मानं च प्रोक्ष्य॥

ध्यानम्॥
ध्यात्वा चतुर्भुजं देवं शङ्खचक्रगदाधरम्।
पीताम्बरयुगोपेतं लक्ष्मीयुक्तं विभूषितम्॥
ध्यायामि॥

आगच्छ देवदेवेश जगद्योने रमापते।
कलशेऽस्मिन्नधिष्ठाने सन्निधेहि कृपां कुरु॥
आवायहामि॥

देवदेव गजन्नाथ गरुडासनसंस्थित।
गृहाणासनकं दिव्यं जगद्धातर्नमोऽस्तु ते॥
आसनम्॥

नानातीर्थाहृतं शुद्धं निर्मलं पुष्पमिश्रितम्।
पाद्यं गृहाण दैत्यारे विश्वरूपे नमोऽस्तु ते॥
पाद्यम्॥

गङ्गादिसर्वतीर्थेभ्यो मयाऽनीतं सुशीतलम्।
गृहाणाचमनं कृष्ण विश्वकाय नमोऽस्तु ते॥
आचमनीयम्॥

गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम्।
अर्घ्यं गृहाण देवेश मया दत्तं हि भक्तितः॥
अर्घ्यम्॥

दधि क्षौद्रं घृतं शुद्धं कपिलायाः सुगन्धि यत्।
सुस्वादु मधुरं शौरे मधुपर्कं गृहाण मे॥
मधुपर्कस्नानम्॥

पञ्चामृतेन स्नपनं करिष्यामि सुरोत्तम।
क्षीरोदधिनिवासाय लक्ष्मीकान्ताय ते नमः॥
पञ्चामृतस्नानम्॥

मन्दाकिनी गौतमी च यमुना च सरस्वती।
ताभ्यः स्नानार्थमानीतं गृहाण शिशिरं जलम्॥
शुद्धोदकशानम्॥ स्नानानन्तरमाचमनीयम्॥

शुद्धजाम्बूनदप्रख्ये तटिद्भासुररोचिषी।
मयोपपादिते तुभ्यं वाससी च गृहाण भो॥
वस्त्रम्॥

यज्ञोपवीतं परमिति यज्ञोपवीतम्॥

किरीटकुण्डलादिनि काञ्चीवलययुग्मकम्।
कौस्तुभं वनमालां च भूषणानि भजस्व भो॥
आभरणम्॥

मलयाचलसम्भूतं गन्धसारं मनोहरम्।
हृदयानन्दनं चारु प्रीत्यर्थं प्रतिगृह्यताम्॥
चन्दनम्॥

मालतीचम्पकादीनि यूथिकावकुलानि च।
तुलसीपत्रमिश्राणि गृहाण सुरसत्तम॥
पुष्पाणि॥

अथाङ्गपूजा

अनघाय नमः। पादौ पूजयामि॥
वामनाय नमः। गुल्फौ पूजयामि॥
शौरये नमः। जङ्घे पूजयामि॥
वैकुण्ठवासिने नमः। ऊरू पूजयामि॥
पुरुषोत्तमाय नमः। मेड्रं पूजयामि॥
वासुदेवाय नमः। कटिं पूजयामि॥
हृषीकेशाय नमः। नाभिं पूजयामि॥
माधवाय नमः। हृदयं पूजयामि॥
मधुसूदनाय नमः। कण्ठं पूजयामि॥
वराहाय नमः। बाहू पूजयामि॥
नृसिंहाय नमः। हस्तान् पूजयामि॥
दैत्यसूदनाय नमः। मुखं पूजयामि॥
दामोदराय नमः। नासिकां पूजयामि॥
पुण्डरीकाक्षाय नमः। नेत्रे पूजयामि॥
गरुडध्वजाय नमः। श्रोत्रे पूजयामि॥
गोविन्दाय नमः। ललाटं पूजयामि॥
अच्युताय नमः। शिरः पूजयामि॥
कृष्णाय नमः। सर्वाण्यङ्गानि पूजयामि॥

अथ कृष्णाष्टोत्तरशतनामानि

ॐ श्रीकृष्णाय नमः।
ॐ कमलानाथाय नमः।
ॐ वासुदेवाय नमः।
ॐ सनातनाय नमः।
ॐ वसुदेवात्मजाय नमः।
ॐ पुण्याय नमः।
ॐ लीलामानुषविग्रहाय नमः।
ॐ श्रीवत्सकौस्तुभधराय नमः।
ॐ यशोदावत्सलाय नमः।
ॐ हरये नमः।१०।
ॐ चतुर्भुजात्तचक्रासिगदाशङ्खाद्यायुधाय नमः।
ॐ देवकीनन्दनाय नमः।
ॐ श्रीशाय नमः।
ॐ नन्दगोपप्रियात्मजाय नमः।
ॐ यमुनावेगसंहारिणे नमः।
ॐ बलभद्रप्रियानुजाय नमः।
ॐ पूतनाजीवितहराय नमः।
ॐ शकटासुरमर्दनाय नमः।
ॐ नन्दव्रजजनानन्दिने नमः।२०।
ॐ सच्चिदानन्दविग्रहाय नमः।
ॐ नवनीतविलिप्ताङ्गाय नमः।
ॐ नवनीतनटाय नमः।
ॐ अनघाय नमः।
ॐ नवनीतनवाहाराय नमः।
ॐ मुचुकुन्दप्रसादकाय नमः।
ॐ षोडशस्त्रीसहस्रेशाय नमः।
ॐ त्रिभङ्गिने नमः।
ॐ ललिताकृतये नमः।
ॐ शुकवागमृताब्धीन्दवे नमः।३०।
ॐ गोविन्दाय नमः।
ॐ योगिनां पतये नमः।
ॐ वत्सवाटचराय नमः।
ॐ अनन्ताय नमः।
ॐ धेनुकासुरभञ्जनाय नमः।
ॐ तृणीकृततृणावर्ताय नमः।
ॐ यमलार्जुनभञ्जनाय नमः।
ॐ उत्तालतालभेत्रे नमः।
ॐ तमालश्यामलाकृतये नमः।
ॐ गोपगोपीश्वराय नमः।४०।
ॐ योगिने नमः।
ॐ कोटिसूर्यसमप्रभाय नमः।
ॐ इलापतये नमः।
ॐ परस्मै ज्योतिषे नमः।
ॐ यादवेन्द्राय नमः।
ॐ यदूद्वहाय नमः।
ॐ वनमालिने नमः।
ॐ पीतवाससे नमः।
ॐ पारिजातापहारकाय नमः।
ॐ गोवर्धनाचलोद्धर्त्रे नमः।५०।
ॐ गोपालाय नमः।
ॐ सर्वपालकाय नमः।
ॐ अजाय नमः।
ॐ निरञ्जनाय नमः।
ॐ कामजनकाय नमः।
ॐ कञ्जलोचनाय नमः। ५५।
ॐ मधुघ्ने नमः।
ॐ मधुरानाथाय नमः।
ॐ द्वारकानायकाय नमः।
ॐ बलिने नमः।
ॐ बृन्दावनान्तसंचारिणे नमः।६०।
ॐ तुलसीदामभूषणाय नमः।
ॐ स्यमन्तकमणेर्हर्त्रे नमः।
ॐ नरनारायणात्मकाय नमः।
ॐ कुब्जाकृष्णाम्बरधराय नमः।
ॐ मायिने नमः।
ॐ परमपुरुषाय नमः।
ॐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः।
ॐ संसारवैरिणे नमः।
ॐ कंसारये नमः।
ॐ मुरारये नमः।७०।
ॐ नरकान्तकाय नमः।
ॐ अनादिब्रह्मचारिणे नमः।
ॐ कृष्णाव्यसनकर्शकाय नमः।
ॐ शिशुपालशिरश्छेत्रे नमः।
ॐ दुर्योधनकुलान्तकाय नमः।
ॐ विदुराक्रूरवरदाय नमः।
ॐ विश्वरूपप्रदर्शकाय नमः।
ॐ सत्यवाचे नमः।
ॐ सत्यसङ्कल्पाय नमः।
ॐ सत्यभामारताय नमः।८०।
ॐ जयिने नमः।
ॐ सुभद्रापूर्वजाय नमः।
ॐ जिष्णवे नमः।
ॐ भीष्ममुक्तिप्रदायकाय नमः।
ॐ जगद्गुरवे नमः।
ॐ जगन्नाथाय नमः।
ॐ वेणुनादविशारदाय नमः।
ॐ वृषभासुरविध्वंसिने नमः।
ॐ बाणासुरकरान्तकाय नमः।
ॐ युधिष्टिरप्रतिष्ठात्रे नमः।
ॐ बर्हिबर्हावतंसकाय नमः।९०।
ॐ पार्थसारथये नमः।
ॐ अव्यक्ताय नमः।
ॐ गीतामृतमहोदधये नमः।
ॐ कालीयफणमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः।
ॐ दामोदराय नमः।
ॐ यज्ञभोक्त्रे नमः।
ॐ दानवेन्द्रविनाशकाय नमः।
ॐ नारायणाय नमः।
ॐ परब्रह्मणे नमः।
ॐ पन्नगाशनवाहनाय नमः।१००।
ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः।
ॐ पुण्यश्लोकाय नमः।
ॐ तीर्थपादाय नमः।
ॐ वेदवेद्याय नमः।
ॐ दयानिधये नमः।
ॐ सर्वतीर्थात्मकाय नमः।
ॐ सर्वग्रहरूपिणे नमः।
ॐ परात्पराय नमः।१०८।

देवकीवसुदेवसहितगोपालकृष्णस्वामिने नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥

धूपम्॥
वनस्पतिरसोद्भूतं कालागरुसमन्वितम्।
धूपं गृहाण गोविन्द गुणसागर गोपते॥
धूपमाघ्रापयामि॥ धूपानन्तरमाचमीयम्॥

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥
दीपं दर्शयामि॥ दीपानन्तरमाचमनीयम्।

नैवेद्यम्॥ ॐ भूर्भुवःसुवः + ब्रह्मणे स्वाहा॥

शाल्योदनं पायसं च सिताघृतविमिश्रितम्।
नानापक्वान्नसम्युक्तं नैवेद्यं प्रतिगृह्यताम्॥
निवेदयामि॥ अमृतापिधानमसि॥ निवेदनानन्तरमाचमनीयं समर्पयामि॥

पूगीफलेति ताम्बूलम्॥

नीराजयेत्ततो भक्त्या मङ्गलं समुदीरयन्।
जयमङ्गलनिर्घोषैर्देवदेवं समर्चयेत्॥
कर्पूरनीराजनं दर्शयामि॥ नीराजनानन्तरमाचमनीयं समर्पयामि॥

यानि कानि चेति प्रदक्षिणम्॥

दत्वा पुष्पाञ्जलिं चैव प्रदक्षिणपुरस्सरम्।
प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वः पुनः पुनः॥
मन्त्रपुष्पम्॥ सुवर्णपुष्पम्॥ नमस्कारान्॥

स्तुत्वा नानाविधैः स्तोत्रैः प्रार्थयेत जगत्पतिम्।
नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो॥

वसुदेवात्मजाऽनन्त यशोदानन्दवर्धन।
गोविन्द गोकुलाधार गोपीकान्त नमोऽस्तु ते॥
प्रार्थना॥

अथ कृष्णार्घ्यमन्त्राः

अद्य पूर्वोक्त + शुभतिथौ अद्यकृतगोपालकृष्णपूजान्ते क्षीरार्घ्यप्रदानं उपायनदानं च करिष्ये॥

जातः कंसवधार्थाय भूभारोत्तारणाय च।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च॥

कौरवाणां विनाशाय दैत्यानां निधनाय च।
गृहाणार्घ्यं मया दत्तं देवकीजनित प्रभो॥

देवकीसहिताय कृष्णाय इदमर्घ्यम्॥ इति त्रिः॥

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव।
रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते॥

इन्द्राय नमः, इदमर्घ्यम्॥ इति त्रिः॥

अनन्तरं गोपालकृष्णरूपं ब्राह्मणं संपूज्य।

हिरण्यगर्भगर्भस्थं + प्रयच्छ मे॥
इदं उपायनं सदक्षिणाकं सताम्बूलं तुभ्यमहं संप्रददे॥

इति दत्वा अनन्तरं श्रीकृष्णजननकथापठनं श्रवणं वा कृत्वा। प्रत्यूषे स्नात्वा नित्यकर्माणि कृत्वा बन्धुभिः सह भुञ्जीत॥

इति भविष्योत्तरपुराणोक्तजन्माष्टमीव्रतं सम्पूर्णम्॥ ॐ॥