अध्ययने -- उपाकर्म, उत्सर्गः, वेदव्रतानि

अध्यययनोपाकर्म-कल्पः

  • तत्र तावदध्यायोपाकरणस्य श्रावण्यां पौर्णमास्यां आचार्यः शिष्यै सह कृतप्राणायामोऽध्यायमुपाकरिष्य इति सङ्कल्प्य महानद्यां विधिवत्स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्।

प्रजापतिं काण्डऋषिं तर्पयामि।
सोमं काण्डऋषिं तर्पयामि।
अग्निं काण्डऋषिं तर्पयामि।
विश्वान्देवान् काण्डऋषिं तर्पयामि।

सांहितीर्देवता उपनिषदस्तर्पयामि।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि।
वारुणीर्देवता उपनिषदस्तर्पयामि।
ब्रह्माणं स्वयंभुवं तर्पयामि।
सदसस्पतिं तर्पयामि इति।

  • ततो ऽग्नेरुपसमादानाद्यग्निमुखान्ते अन्वारब्धेष्वन्तेवासिषु नवाज्याहुतीर्जुहोति।

प्रजापतये काण्डऋषये स्वाहा।
सोमाय काण्डऋषये स्वाहा।
अग्नये काण्डऋषये स्वाहा।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा।

  • (उपहोमाः - ) सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा।
    याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा।
    वारुणीभ्यो देवताभ्य उपनिषद्भ्य स्वाहा।
    ब्रह्मणे स्वयंभुवे स्वाहा।

  • सदसस्पतिमित्येतयर्चा नवमीमाहुतिं जुहोति।
  • तत आचार्यप्रमुखाः दर्भेष्वासीना दर्भान् धारयमाणा वेदस्यादितश्चतुरोऽवरार्ध्याननुवाकानधीयीरन्।
  • अथ जयादि परिषेचनान्ते ब्राह्मणतर्पणम्।

एवमेवोत्सर्गे, न ततोऽधिकंस्मृत्यन्तरोपसंहारेणापि, किन्तु यथापस्तम्बीयं सूत्रम्। तथा नादितो वेदस्यानुवाकानामध्ययनम्। जयादयस्तु भवन्ति। सौम्यादृते काण्डोपाकरणसमापनयोश्च न सूक्तोपहोमदेवतोपस्थानजयादयः। सौम्यस्यैव सूक्तजयादयः। एवमापस्तम्बमत एवावस्थिताः केचित्कुर्वते यथोक्तम्॥

प्राजापत्याग्नेय-वैश्वदेव-व्रत-कल्पाः

अथ प्राजापत्ये व्रते पूर्ववत् स्नात्वा सोमाग्निविश्वेदेववर्ज्यानां तर्पणम्। अग्निमुखान्ते चान्वारब्धे व्रतिनि जुहोत िप्रजापतये काण्डऋषये स्वाहा। “प्रजापते न त्वदेतान्यन्यः” (तै.ब्रा.२.८.१.२) इति सूक्तेन प्रत्यृचं षडाहुतीः, चतस्र उपहोमाहुतीः सांहितीभ्य इत्यादिभिरेव, सदसस्पतिमित्येतयैव सदसस्पतिं च। “अग्ने व्रतपते काण्डऋषिभ्यः प्राजापत्यं व्रतं चरिष्यामि, तच्छकेयं तन्मे राध्यताम्”। {वायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते} काण्डऋषिभ्यः प्राजापत्यं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्”। (तै.आ.४.४१.३) इत्येतैश्चतुर्भिः यथादेवतम्। ततो जयादि, ब्राह्मणतर्पणं च।

एवमेव समापने प्रयोगः संवत्सरे संवत्सरे पर्यवेते। तत्रोपस्थानमन्त्रेषु अचारिषमशकमराधीति विशेषः। केचित्सौम्ये केशश्मश्रुवापनस्य दृष्टत्वात्प्राजापत्यादिष्वपीच्छन्ति ॥

एवमेवाग्नेये वैश्वदेवे च। अग्नये काण्डऋषये स्वाहा, “अग्ने नये”(तै.ब्रा.२.८.२)तिषडृचं सूक्तम्, “अग्ने व्रतपते काण्डऋषिभ्यः आग्नेयं व्रतं चरिष्यामी”त्याग्नेये विशेषः। विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा, “आ नो विश्वे अस्क्रागमन्तु”(तै.ब्रा.२.८.६.३) इति षडृचं सूक्तम्। वैश्वदेवं व्रतं चरिष्यामीऽति वैश्वदेवव्रते विशेषः ॥

सौम्यव्रत-कल्पः

सोमस्य काण्डोपाकरणसमापने शुक्रियकल्पोक्ते। अत्राप्युक्तं यत्तदुच्यते॥ पूर्ववदुपाकृत्याग्नेरुपसमाधानाद्यग्निमुखान्ते, सोमाय काणेडऋषये स्वाहा। “सोमो धेनु”(तै.ब्रा.३.९.३.१) मिति षडृचं सूक्तम्। उपहोमान् सदसस्पतिं च हुत्वा, एवं पूर्ववदुपाकृत्य, मदन्तीमुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति “पृथिवी समित्”(तै.आ.४-४१-१०) इत्यादिभिः। अथ देवतोपस्थानम् - “अग्ने व्रतपते काण्डऋषिभ्यः सौम्यं व्रतं चरिष्यामि” इत्यादिभिः। ततः प्रभृति शुक्रियमन्त्रब्राह्मणानुवाकानां प्रथमपदानि “युञ्जते”(तै.आ.४.२), “सविता”(तै.आ.४.१२) इति वाभिव्याहार्य वाचयित्वा जयादि प्रतिपद्यते। परिषेचनान्तं कृत्वा मदन्तीमुपस्पृस्य, उत्तमेनानुवाकेन शान्तिं कृत्वा तत सम्मीलनादि यथासूत्रम्। श्वोभूते “वयः सुपर्णाः” (तै.आ.४.४२.३) इत्यादित्योपस्थानान्ते ब्राह्मणभोजनम्। अथास्य स्वाध्यायविधिः शुक्रियकल्प एवोक्तः।

एवं समापने। विशेषस्तु “द्यौस्समिदादित्य व्रतपते” इत्याद्यावृत्ताः समिदाधानोपस्थानमन्त्राः। उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम्।